
: शिवप्रार्थना मंत्र :
स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमंबिकेशम् |
खट्वाङ्ग शूलवरदाभय हस्तमीशं संसार रोग हरमौषधमद्वितीयम् ॥
प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थिति प्रलय कारणमद्वितीयम् |
विश्र्वेश्र्वरं विजितविश्र्वमनोभिरामं संसार रोग हरमौषधमद्वितीयम् ॥
प्रातर्भजामि शिवमेकमनन्तमाद्यं वेदान्तवेद्यमनघं पुरुषं महान्तम् |
नामादिभेदरहितं षडभावशून्यं संसार रोग हरमौषधमद्वितीयम्
शिवप्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि भवभीतिहरं सुरेशं
गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्वाङ्गशूलवरदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीयम् ॥१॥
प्रातर्नमामि गिरिशं गिरिजार्धदेहं
सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम् ॥२॥
प्रातर्भजामि शिवमेकमनन्तमाद्यं
वेदान्तवेद्यमनघं पुरुषं महान्तम् ।
नामादिभेदरहितं षड्भावशून्यं
संसाररोगहरमौषधमद्वितीयम् ॥३॥



